भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 7.091

7.091.01

कुविद् अङ्ग नमसा ये वृधासः पुरा देवा अनवद्यास आसन् ।
ते वायवे मनवे बाधितायावासयन्न् उषसं सूर्येण ॥

7.091.02

उशन्ता दूता न दभाय गोपा मासश् च पाथः शरदश् च पूर्वीः ।
इन्द्रवायू सुष्टुतिर् वाम् इयाना मार्डीकम् ईट्टे सुवितं च नव्यम् ॥

7.091.03

पीवोअन्नाँ रयिवृधः सुमेधाः श्वेतः सिषक्ति नियुताम् अभिश्रीः ।
ते वायवे समनसो वि तस्थुर् विश्वेन् नरः स्वपत्यानि चक्रुः ॥

7.091.04

यावत् तरस् तन्वो3 यावद् ओजो यावन् नरश् चक्षसा दीध्यानाः ।
शुचिं सोमं शुचिपा पातम् अस्मे इन्द्रवायू सदतम् बर्हिर् एदम् ॥

7.091.05

नियुवाना नियुतः स्पार्हवीरा इन्द्रवायू सरथं यातम् अर्वाक् ।
इदं हि वाम् प्रभृतम् मध्वो अग्रम् अध प्रीणाना वि मुमुक्तम् अस्मे ॥

7.091.06

या वां शतं नियुतो याः सहस्रम् इन्द्रवायू विश्ववाराः सचन्ते ।
आभिर् यातं सुविदत्राभिर् अर्वाक् पातं नरा प्रतिभृतस्य मध्वः ॥

7.091.07

अर्वन्तो न श्रवसो भिक्षमाणा इन्द्रवायू सुष्टुतिभिर् वसिष्ठाः ।
वाजयन्तः स्व् अवसे हुवेम यूयम् पात स्वस्तिभिः सदा नः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc