ऋग्वेद · अध्याय 7.090
प्र वीरया शुचयो दद्रिरे वाम् अध्वर्युभिर् मधुमन्तः सुतासः ।
वह वायो नियुतो याह्य् अच्छा पिबा सुतस्यान्धसो मदाय ॥
ईशानाय प्रहुतिं यस् त आनट् छुचिं सोमं शुचिपास् तुभ्यं वायो ।
कृणोषि तम् मर्त्येषु प्रशस्तं जातो-जातो जायते वाज्य् अस्य ॥
राये नु यं जज्ञतू रोदसीमे राये देवी धिषणा धाति देवम् ।
अध वायुं नियुतः सश्चत स्वा उत श्वेतं वसुधितिं निरेके ॥
उच्छन्न् उषसः सुदिना अरिप्रा उरु ज्योतिर् विविदुर् दीध्यानाः ।
गव्यं चिद् ऊर्वम् उशिजो वि वव्रुस् तेषाम् अनु प्रदिवः सस्रुर् आपः ॥
ते सत्येन मनसा दीध्यानाः स्वेन युक्तासः क्रतुना वहन्ति ।
इन्द्रवायू वीरवाहं रथं वाम् ईशानयोर् अभि पृक्षः सचन्ते ॥
ईशानासो ये दधते स्वर् णो गोभिर् अश्वेभिर् वसुभिर् हिरण्यैः ।
इन्द्रवायू सूरयो विश्वम् आयुर् अर्वद्भिर् वीरैः पृतनासु सह्युः ॥
अर्वन्तो न श्रवसो भिक्षमाणा इन्द्रवायू सुष्टुतिभिर् वसिष्ठाः ।
वाजयन्तः स्व् अवसे हुवेम यूयम् पात स्वस्तिभिः सदा नः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0