भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 7.088

7.088.01

प्र शुन्ध्युवं वरुणाय प्रेष्ठाम् मतिं वसिष्ठ मीळ्हुषे भरस्व ।
य ईम् अर्वाञ्चं करते यजत्रं सहस्रामघं वृषणम् बृहन्तम् ॥

7.088.02

अधा न्व् अस्य संदृशं जगन्वान् अग्नेर् अनीकं वरुणस्य मंसि ।
स्व1र् यद् अश्मन्न् अधिपा उ अन्धो ऽभि मा वपुर् दृशये निनीयात् ॥

7.088.03

आ यद् रुहाव वरुणश् च नावम् प्र यत् समुद्रम् ईरयाव मध्यम् ।
अधि यद् अपां स्नुभिश् चराव प्र प्रेङ्ख ईङ्खयावहै शुभे कम् ॥

7.088.04

वसिष्ठं ह वरुणो नाव्य् आधाद् ऋषिं चकार स्वपा महोभिः ।
स्तोतारं विप्रः सुदिनत्वे अह्नां यान् नु द्यावस् ततनन् याद् उषासः ॥

7.088.05

क्व1 त्यानि नौ सख्या बभूवुः सचावहे यद् अवृकम् पुरा चित् ।
बृहन्तम् मानं वरुण स्वधावः सहस्रद्वारं जगमा गृहं ते ॥

7.088.06

य आपिर् नित्यो वरुण प्रियः सन् त्वाम् आगांसि कृणवत् सखा ते ।
मा त एनस्वन्तो यक्षिन् भुजेम यन्धि ष्मा विप्रः स्तुवते वरूथम् ॥

7.088.07

ध्रुवासु त्वासु क्षितिषु क्षियन्तो व्य् अ1स्मत् पाशं वरुणो मुमोचत् ।
अवो वन्वाना अदितेर् उपस्थाद् यूयम् पात स्वस्तिभिः सदा नः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc