भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 7.087

7.087.01

रदत् पथो वरुणः सूर्याय प्रार्णांसि समुद्रिया नदीनाम् ।
सर्गो न सृष्टो अर्वतीर् ऋतायञ् चकार महीर् अवनीर् अहभ्यः ॥

7.087.02

आत्मा ते वातो रज आ नवीनोत् पशुर् न भूर्णिर् यवसे ससवान् ।
अन्तर् मही बृहती रोदसीमे विश्वा ते धाम वरुण प्रियाणि ॥

7.087.03

परि स्पशो वरुणस्य स्मदिष्टा उभे पश्यन्ति रोदसी सुमेके ।
ऋतावानः कवयो यज्ञधीराः प्रचेतसो य इषयन्त मन्म ॥

7.087.04

उवाच मे वरुणो मेधिराय त्रिः सप्त नामाघ्न्या बिभर्ति ।
विद्वान् पदस्य गुह्या न वोचद् युगाय विप्र उपराय शिक्षन् ॥

7.087.05

तिस्रो द्यावो निहिता अन्तर् अस्मिन् तिस्रो भूमीर् उपराः षड्विधानाः ।
गृत्सो राजा वरुणश् चक्र एतं दिवि प्रेङ्खं हिरण्ययं शुभे कम् ॥

7.087.06

अव सिन्धुं वरुणो द्यौर् इव स्थाद् द्रप्सो न श्वेतो मृगस् तुविष्मान् ।
गम्भीरशंसो रजसो विमानः सुपारक्षत्रः सतो अस्य राजा ॥

7.087.07

यो मृळयाति चक्रुषे चिद् आगो वयं स्याम वरुणे अनागाः ।
अनु व्रतान्य् अदितेर् ऋधन्तो यूयम् पात स्वस्तिभिः सदा नः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc