ऋग्वेद · अध्याय 7.086
धीरा त्व् अस्य महिना जनूंषि वि यस् तस्तम्भ रोदसी चिद् उर्वी ।
प्र नाकम् ऋष्वं नुनुदे बृहन्तं द्विता नक्षत्रम् पप्रथच् च भूम ॥
उत स्वया तन्वा3 सं वदे तत् कदा न्व् अ1न्तर् वरुणे भुवानि ।
किम् मे हव्यम् अहृणानो जुषेत कदा मृळीकं सुमना अभि ख्यम् ॥
पृच्छे तद् एनो वरुण दिदृक्षूपो एमि चिकितुषो विपृच्छम् ।
समानम् इन् मे कवयश् चिद् आहुर् अयं ह तुभ्यं वरुणो हृणीते ॥
किम् आग आस वरुण ज्येष्ठं यत् स्तोतारं जिघांससि सखायम् ।
प्र तन् मे वोचो दूळभ स्वधावो ऽव त्वानेना नमसा तुर इयाम् ॥
अव द्रुग्धानि पित्र्या सृजा नो ऽव या वयं चकृमा तनूभिः ।
अव राजन् पशुतृपं न तायुं सृजा वत्सं न दाम्नो वसिष्ठम् ॥
न स स्वो दक्षो वरुण ध्रुतिः सा सुरा मन्युर् विभीदको अचित्तिः ।
अस्ति ज्यायान् कनीयस उपारे स्वप्नश् चनेद् अनृतस्य प्रयोता ॥
अरं दासो न मीळ्हुषे कराण्य् अहं देवाय भूर्णये ऽनागाः ।
अचेतयद् अचितो देवो अर्यो गृत्सं राये कवितरो जुनाति ॥
अयं सु तुभ्यं वरुण स्वधावो हृदि स्तोम उपश्रितश् चिद् अस्तु ।
शं नः क्षेमे शम् उ योगे नो अस्तु यूयम् पात स्वस्तिभिः सदा नः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0