ऋग्वेद · अध्याय 7.082
इन्द्रावरुणा युवम् अध्वराय नो विशे जनाय महि शर्म यच्छतम् ।
दीर्घप्रयज्युम् अति यो वनुष्यति वयं जयेम पृतनासु दूढ्यः ॥
सम्राळ् अन्यः स्वराळ् अन्य उच्यते वाम् महान्ताव् इन्द्रावरुणा महावसू ।
विश्वे देवासः परमे व्योमनि सं वाम् ओजो वृषणा सम् बलं दधुः ॥
अन्व् अपां खान्य् अतृन्तम् ओजसा सूर्यम् ऐरयतं दिवि प्रभुम् ।
इन्द्रावरुणा मदे अस्य मायिनो ऽपिन्वतम् अपितः पिन्वतं धियः ॥
युवाम् इद् युत्सु पृतनासु वह्नयो युवां क्षेमस्य प्रसवे मितज्ञवः ।
ईशाना वस्व उभयस्य कारव इन्द्रावरुणा सुहवा हवामहे ॥
इन्द्रावरुणा यद् इमानि चक्रथुर् विश्वा जातानि भुवनस्य मज्मना ।
क्षेमेण मित्रो वरुणं दुवस्यति मरुद्भिर् उग्रः शुभम् अन्य ईयते ॥
महे शुल्काय वरुणस्य नु त्विष ओजो मिमाते ध्रुवम् अस्य यत् स्वम् ।
अजामिम् अन्यः श्नथयन्तम् आतिरद् दभ्रेभिर् अन्यः प्र वृणोति भूयसः ॥
न तम् अंहो न दुरितानि मर्त्यम् इन्द्रावरुणा न तपः कुतश् चन ।
यस्य देवा गच्छथो वीथो अध्वरं न तम् मर्तस्य नशते परिह्वृतिः ॥
अर्वाङ् नरा दैव्येनावसा गतं शृणुतं हवं यदि मे जुजोषथः ।
युवोर् हि सख्यम् उत वा यद् आप्यम् मार्डीकम् इन्द्रावरुणा नि यच्छतम् ॥
अस्माकम् इन्द्रावरुणा भरे-भरे पुरोयोधा भवतं कृष्ट्योजसा ।
यद् वां हवन्त उभये अध स्पृधि नरस् तोकस्य तनयस्य सातिषु ॥
अस्मे इन्द्रो वरुणो मित्रो अर्यमा द्युम्नं यच्छन्तु महि शर्म सप्रथः ।
अवध्रं ज्योतिर् अदितेर् ऋतावृधो देवस्य श्लोकं सवितुर् मनामहे ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0