भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 7.081

7.081.01

प्रत्य् उ अदर्श्य् आयत्य् उ1च्छन्ती दुहिता दिवः ।
अपो महि व्ययति चक्षसे तमो ज्योतिष् कृणोति सूनरी ॥

7.081.02

उद् उस्रियाः सृजते सूर्यः सचाँ उद्यन् नक्षत्रम् अर्चिवत् ।
तवेद् उषो व्युषि सूर्यस्य च सम् भक्तेन गमेमहि ॥

7.081.03

प्रति त्वा दुहितर् दिव उषो जीरा अभुत्स्महि ।
या वहसि पुरु स्पार्हं वनन्वति रत्नं न दाशुषे मयः ॥

7.081.04

उच्छन्ती या कृणोषि मंहना महि प्रख्यै देवि स्वर् दृशे ।
तस्यास् ते रत्नभाज ईमहे वयं स्याम मातुर् न सूनवः ॥

7.081.05

तच् चित्रं राध आ भरोषो यद् दीर्घश्रुत्तमम् ।
यत् ते दिवो दुहितर् मर्तभोजनं तद् रास्व भुनजामहै ॥

7.081.06

श्रवः सूरिभ्यो अमृतं वसुत्वनं वाजाँ अस्मभ्यं गोमतः ।
चोदयित्री मघोनः सूनृतावत्य् उषा उच्छद् अप स्रिधः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc