भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 7.080

7.080.01

प्रति स्तोमेभिर् उषसं वसिष्ठा गीर्भिर् विप्रासः प्रथमा अबुध्रन् ।
विवर्तयन्तीं रजसी समन्ते आविष्कृण्वतीम् भुवनानि विश्वा ॥

7.080.02

एषा स्या नव्यम् आयुर् दधाना गूढ्वी तमो ज्योतिषोषा अबोधि ।
अग्र एति युवतिर् अह्रयाणा प्राचिकितत् सूर्यं यज्ञम् अग्निम् ॥

7.080.03

अश्वावतीर् गोमतीर् न उषासो वीरवतीः सदम् उच्छन्तु भद्राः ।
घृतं दुहाना विश्वतः प्रपीता यूयम् पात स्वस्तिभिः सदा नः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc