भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 7.079

7.079.01

व्य् उ1षा आवः पथ्या3 जनानाम् पञ्च क्षितीर् मानुषीर् बोधयन्ती ।
सुसंदृग्भिर् उक्षभिर् भानुम् अश्रेद् वि सूर्यो रोदसी चक्षसावः ॥

7.079.02

व्य् अञ्जते दिवो अन्तेष्व् अक्तून् विशो न युक्ता उषसो यतन्ते ।
सं ते गावस् तम आ वर्तयन्ति ज्योतिर् यच्छन्ति सवितेव बाहू ॥

7.079.03

अभूद् उषा इन्द्रतमा मघोन्य् अजीजनत् सुविताय श्रवांसि ।
वि दिवो देवी दुहिता दधात्य् अङ्गिरस्तमा सुकृते वसूनि ॥

7.079.04

तावद् उषो राधो अस्मभ्यं रास्व यावत् स्तोतृभ्यो अरदो गृणाना ।
यां त्वा जज्ञुर् वृषभस्या रवेण वि दृळ्हस्य दुरो अद्रेर् और्णोः ॥

7.079.05

देवं-देवं राधसे चोदयन्त्य् अस्मद्र्यक् सूनृता ईरयन्ती ।
व्युच्छन्ती नः सनये धियो धा यूयम् पात स्वस्तिभिः सदा नः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc