ऋग्वेद · अध्याय 7.075
व्य् उ1षा आवो दिविजा ऋतेनाविष्कृण्वाना महिमानम् आगात् ।
अप द्रुहस् तम आवर् अजुष्टम् अङ्गिरस्तमा पथ्या अजीगः ॥
महे नो अद्य सुविताय बोध्य् उषो महे सौभगाय प्र यन्धि ।
चित्रं रयिं यशसं धेह्य् अस्मे देवि मर्तेषु मानुषि श्रवस्युम् ॥
एते त्ये भानवो दर्शतायाश् चित्रा उषसो अमृतास आगुः ।
जनयन्तो दैव्यानि व्रतान्य् आपृणन्तो अन्तरिक्षा व्य् अस्थुः ॥
एषा स्या युजाना पराकात् पञ्च क्षितीः परि सद्यो जिगाति ।
अभिपश्यन्ती वयुना जनानां दिवो दुहिता भुवनस्य पत्नी ॥
वाजिनीवती सूर्यस्य योषा चित्रामघा राय ईशे वसूनाम् ।
ऋषिष्टुता जरयन्ती मघोन्य् उषा उच्छति वह्निभिर् गृणाना ॥
प्रति द्युतानाम् अरुषासो अश्वाश् चित्रा अदृश्रन्न् उषसं वहन्तः ।
याति शुभ्रा विश्वपिशा रथेन दधाति रत्नं विधते जनाय ॥
सत्या सत्येभिर् महती महद्भिर् देवी देवेभिर् यजता यजत्रैः ।
रुजद् दृळ्हानि ददद् उस्रियाणाम् प्रति गाव उषसं वावशन्त ॥
नू नो गोमद् वीरवद् धेहि रत्नम् उषो अश्वावत् पुरुभोजो अस्मे ।
मा नो बर्हिः पुरुषता निदे कर् यूयम् पात स्वस्तिभिः सदा नः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0