भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 7.073

7.073.01

अतारिष्म तमसस् पारम् अस्य प्रति स्तोमं देवयन्तो दधानाः ।
पुरुदंसा पुरुतमा पुराजामर्त्या हवते अश्विना गीः ॥

7.073.02

न्य् उ प्रियो मनुषः सादि होता नासत्या यो यजते वन्दते च ।
अश्नीतम् मध्वो अश्विना उपाक आ वां वोचे विदथेषु प्रयस्वान् ॥

7.073.03

अहेम यज्ञम् पथाम् उराणा इमां सुवृक्तिं वृषणा जुषेथाम् ।
श्रुष्टीवेव प्रेषितो वाम् अबोधि प्रति स्तोमैर् जरमाणो वसिष्ठः ॥

7.073.04

उप त्या वह्नी गमतो विशं नो रक्षोहणा सम्भृता वीळुपाणी ।
सम् अन्धांस्य् अग्मत मत्सराणि मा नो मर्धिष्टम् आ गतं शिवेन ॥

7.073.05

आ पश्चातान् नासत्या पुरस्ताद् आश्विना यातम् अधराद् उदक्तात् ।
आ विश्वतः पाञ्चजन्येन राया यूयम् पात स्वस्तिभिः सदा नः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc