ऋग्वेद · अध्याय 7.072
आ गोमता नासत्या रथेनाश्वावता पुरुश्चन्द्रेण यातम् ।
अभि वां विश्वा नियुतः सचन्ते स्पार्हया श्रिया तन्वा शुभाना ॥
आ नो देवेभिर् उप यातम् अर्वाक् सजोषसा नासत्या रथेन ।
युवोर् हि नः सख्या पित्र्याणि समानो बन्धुर् उत तस्य वित्तम् ॥
उद् उ स्तोमासो अश्विनोर् अबुध्रञ् जामि ब्रह्माण्य् उषसश् च देवीः ।
आविवासन् रोदसी धिष्ण्येमे अच्छा विप्रो नासत्या विवक्ति ॥
वि चेद् उच्छन्त्य् अश्विना उषासः प्र वाम् ब्रह्माणि कारवो भरन्ते ।
ऊर्ध्वम् भानुं सविता देवो अश्रेद् बृहद् अग्नयः समिधा जरन्ते ॥
आ पश्चातान् नासत्या पुरस्ताद् आश्विना यातम् अधराद् उदक्तात् ।
आ विश्वतः पाञ्चजन्येन राया यूयम् पात स्वस्तिभिः सदा नः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0