भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 7.071

7.071.01

अप स्वसुर् उषसो नग् जिहीते रिणक्ति कृष्णीर् अरुषाय पन्थाम् ।
अश्वामघा गोमघा वां हुवेम दिवा नक्तं शरुम् अस्मद् युयोतम् ॥

7.071.02

उपायातं दाशुषे मर्त्याय रथेन वामम् अश्विना वहन्ता ।
युयुतम् अस्मद् अनिराम् अमीवां दिवा नक्तम् माध्वी त्रासीथां नः ॥

7.071.03

आ वां रथम् अवमस्यां व्युष्टौ सुम्नायवो वृषणो वर्तयन्तु ।
स्यूमगभस्तिम् ऋतयुग्भिर् अश्वैर् आश्विना वसुमन्तं वहेथाम् ॥

7.071.04

यो वां रथो नृपती अस्ति वोळ्हा त्रिवन्धुरो वसुमाँ उस्रयामा ।
आ न एना नासत्योप यातम् अभि यद् वां विश्वप्स्न्यो जिगाति ॥

7.071.05

युवं च्यवानं जरसो ऽमुमुक्तं नि पेदव ऊहथुर् आशुम् अश्वम् ।
निर् अंहसस् तमसः स्पर्तम् अत्रिं नि जाहुषं शिथिरे धातम् अन्तः ॥

7.071.06

इयम् मनीषा इयम् अश्विना गीर् इमां सुवृक्तिं वृषणा जुषेथाम् ।
इमा ब्रह्माणि युवयून्य् अग्मन् यूयम् पात स्वस्तिभिः सदा नः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc