ऋग्वेद · अध्याय 7.065
प्रति वां सूर उदिते सूक्तैर् मित्रं हुवे वरुणम् पूतदक्षम् ।
ययोर् असुर्य1म् अक्षितं ज्येष्ठं विश्वस्य यामन्न् आचिता जिगत्नु ॥
ता हि देवानाम् असुरा ताव् अर्या ता नः क्षितीः करतम् ऊर्जयन्तीः ।
अश्याम मित्रावरुणा वयं वां द्यावा च यत्र पीपयन्न् अहा च ॥
ता भूरिपाशाव् अनृतस्य सेतू दुरत्येतू रिपवे मर्त्याय ।
ऋतस्य मित्रावरुणा पथा वाम् अपो न नावा दुरिता तरेम ॥
आ नो मित्रावरुणा हव्यजुष्टिं घृतैर् गव्यूतिम् उक्षतम् इळाभिः ।
प्रति वाम् अत्र वरम् आ जनाय पृणीतम् उद्नो दिव्यस्य चारोः ॥
एष स्तोमो वरुण मित्र तुभ्यं सोमः शुक्रो न वायवे ऽयामि ।
अविष्टं धियो जिगृतम् पुरंधीर् यूयम् पात स्वस्तिभिः सदा नः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0