भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 7.064

7.064.01

दिवि क्षयन्ता रजसः पृथिव्याम् प्र वां घृतस्य निर्णिजो ददीरन् ।
हव्यं नो मित्रो अर्यमा सुजातो राजा सुक्षत्रो वरुणो जुषन्त ॥

7.064.02

आ राजाना मह ऋतस्य गोपा सिन्धुपती क्षत्रिया यातम् अर्वाक् ।
इळां नो मित्रावरुणोत वृष्टिम् अव दिव इन्वतं जीरदानू ॥

7.064.03

मित्रस् तन् नो वरुणो देवो अर्यः प्र साधिष्ठेभिः पथिभिर् नयन्तु ।
ब्रवद् यथा न आद् अरिः सुदास इषा मदेम सह देवगोपाः ॥

7.064.04

यो वां गर्तम् मनसा तक्षद् एतम् ऊर्ध्वां धीतिं कृणवद् धारयच् च ।
उक्षेथाम् मित्रावरुणा घृतेन ता राजाना सुक्षितीस् तर्पयेथाम् ॥

7.064.05

एष स्तोमो वरुण मित्र तुभ्यं सोमः शुक्रो न वायवे ऽयामि ।
अविष्टं धियो जिगृतम् पुरंधीर् यूयम् पात स्वस्तिभिः सदा नः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc