भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 7.063

7.063.01

उद् व् एति सुभगो विश्वचक्षाः साधारणः सूर्यो मानुषाणाम् ।
चक्षुर् मित्रस्य वरुणस्य देवश् चर्मेव यः समविव्यक् तमांसि ॥

7.063.02

उद् व् एति प्रसवीता जनानाम् महान् केतुर् अर्णवः सूर्यस्य ।
समानं चक्रम् पर्याविवृत्सन् यद् एतशो वहति धूर्षु युक्तः ॥

7.063.03

विभ्राजमान उषसाम् उपस्थाद् रेभैर् उद् एत्य् अनुमद्यमानः ।
एष मे देवः सविता चच्छन्द यः समानं न प्रमिनाति धाम ॥

7.063.04

दिवो रुक्म उरुचक्षा उद् एति दूरेअर्थस् तरणिर् भ्राजमानः ।
नूनं जनाः सूर्येण प्रसूता अयन्न् अर्थानि कृणवन्न् अपांसि ॥

7.063.05

यत्रा चक्रुर् अमृता गातुम् अस्मै श्येनो न दीयन्न् अन्व् एति पाथः ।
प्रति वां सूर उदिते विधेम नमोभिर् मित्रावरुणोत हव्यैः ॥

7.063.06

नू मित्रो वरुणो अर्यमा नस् त्मने तोकाय वरिवो दधन्तु ।
सुगा नो विश्वा सुपथानि सन्तु यूयम् पात स्वस्तिभिः सदा नः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc