भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 7.059

7.059.01

यं त्रायध्व इदम्-इदं देवासो यं च नयथ ।
तस्मा अग्ने वरुण मित्रार्यमन् मरुतः शर्म यच्छत ॥

7.059.02

युष्माकं देवा अवसाहनि प्रिय ईजानस् तरति द्विषः ।
प्र स क्षयं तिरते वि महीर् इषो यो वो वराय दाशति ॥

7.059.03

नहि वश् चरमं चन वसिष्ठः परिमंसते ।
अस्माकम् अद्य मरुतः सुते सचा विश्वे पिबत कामिनः ॥

7.059.04

नहि व ऊतिः पृतनासु मर्धति यस्मा अराध्वं नरः ।
अभि व आवर्त् सुमतिर् नवीयसी तूयं यात पिपीषवः ॥

7.059.05

ओ षु घृष्विराधसो यातनान्धांसि पीतये ।
इमा वो हव्या मरुतो ररे हि कम् मो ष्व् अ1न्यत्र गन्तन ॥

7.059.06

आ च नो बर्हिः सदताविता च नः स्पार्हाणि दातवे वसु ।
अस्रेधन्तो मरुतः सोम्ये मधौ स्वाहेह मादयाध्वै ॥

7.059.07

सस्वश् चिद् धि तन्व1ः शुम्भमाना आ हंसासो नीलपृष्ठा अपप्तन् ।
विश्वं शर्धो अभितो मा नि षेद नरो न रण्वाः सवने मदन्तः ॥

7.059.08

यो नो मरुतो अभि दुर्हृणायुस् तिरश् चित्तानि वसवो जिघांसति ।
द्रुहः पाशान् प्रति स मुचीष्ट तपिष्ठेन हन्मना हन्तना तम् ॥

7.059.09

सांतपना इदं हविर् मरुतस् तज् जुजुष्टन ।
युष्माकोती रिशादसः ॥

7.059.10

गृहमेधास आ गत मरुतो माप भूतन ।
युष्माकोती सुदानवः ॥

7.059.11

इहेह वः स्वतवसः कवयः सूर्यत्वचः ।
यज्ञम् मरुत आ वृणे ॥

7.059.12

त्र्यम्बकं यजामहे सुगन्धिम् पुष्टिवर्धनम् ।
उर्वारुकम् इव बन्धनान् मृत्योर् मुक्षीय मामृतात् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc