भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 7.058

7.058.01

प्र साकमुक्षे अर्चता गणाय यो दैव्यस्य धाम्नस् तुविष्मान् ।
उत क्षोदन्ति रोदसी महित्वा नक्षन्ते नाकं निरृतेर् अवंशात् ॥

7.058.02

जनूश् चिद् वो मरुतस् त्वेष्येण भीमासस् तुविमन्यवो ऽयासः ।
प्र ये महोभिर् ओजसोत सन्ति विश्वो वो यामन् भयते स्वर्दृक् ॥

7.058.03

बृहद् वयो मघवद्भ्यो दधात जुजोषन्न् इन् मरुतः सुष्टुतिं नः ।
गतो नाध्वा वि तिराति जन्तुम् प्र णः स्पार्हाभिर् ऊतिभिस् तिरेत ॥

7.058.04

युष्मोतो विप्रो मरुतः शतस्वी युष्मोतो अर्वा सहुरिः सहस्री ।
युष्मोतः सम्राळ् उत हन्ति वृत्रम् प्र तद् वो अस्तु धूतयो देष्णम् ॥

7.058.05

ताँ आ रुद्रस्य मीळ्हुषो विवासे कुविन् नंसन्ते मरुतः पुनर् नः ।
यत् सस्वर्ता जिहीळिरे यद् आविर् अव तद् एन ईमहे तुराणाम् ॥

7.058.06

प्र सा वाचि सुष्टुतिर् मघोनाम् इदं सूक्तम् मरुतो जुषन्त ।
आराच् चिद् द्वेषो वृषणो युयोत यूयम् पात स्वस्तिभिः सदा नः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc