भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 7.048

7.048.01

ऋभुक्षणो वाजा मादयध्वम् अस्मे नरो मघवानः सुतस्य ।
आ वो ऽर्वाचः क्रतवो न यातां विभ्वो रथं नर्यं वर्तयन्तु ॥

7.048.02

ऋभुर् ऋभुभिर् अभि वः स्याम विभ्वो विभुभिः शवसा शवांसि ।
वाजो अस्माँ अवतु वाजसाताव् इन्द्रेण युजा तरुषेम वृत्रम् ॥

7.048.03

ते चिद् धि पूर्वीर् अभि सन्ति शासा विश्वाँ अर्य उपरताति वन्वन् ।
इन्द्रो विभ्वाँ ऋभुक्षा वाजो अर्यः शत्रोर् मिथत्या कृणवन् वि नृम्णम् ॥

7.048.04

नू देवासो वरिवः कर्तना नो भूत नो विश्वे ऽवसे सजोषाः ।
सम् अस्मे इषं वसवो ददीरन् यूयम् पात स्वस्तिभिः सदा नः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc