ऋग्वेद · अध्याय 7.047
आपो यं वः प्रथमं देवयन्त इन्द्रपानम् ऊर्मिम् अकृण्वतेळः ।
तं वो वयं शुचिम् अरिप्रम् अद्य घृतप्रुषम् मधुमन्तं वनेम ॥
तम् ऊर्मिम् आपो मधुमत्तमं वो ऽपां नपाद् अवत्व् आशुहेमा ।
यस्मिन्न् इन्द्रो वसुभिर् मादयाते तम् अश्याम देवयन्तो वो अद्य ॥
शतपवित्राः स्वधया मदन्तीर् देवीर् देवानाम् अपि यन्ति पाथः ।
ता इन्द्रस्य न मिनन्ति व्रतानि सिन्धुभ्यो हव्यं घृतवज् जुहोत ॥
याः सूर्यो रश्मिभिर् आततान याभ्य इन्द्रो अरदद् गातुम् ऊर्मिम् ।
ते सिन्धवो वरिवो धातना नो यूयम् पात स्वस्तिभिः सदा नः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0