ऋग्वेद · अध्याय 7.045
आ देवो यातु सविता सुरत्नो ऽन्तरिक्षप्रा वहमानो अश्वैः ।
हस्ते दधानो नर्या पुरूणि निवेशयञ् च प्रसुवञ् च भूम ॥
उद् अस्य बाहू शिथिरा बृहन्ता हिरण्यया दिवो अन्ताँ अनष्टाम् ।
नूनं सो अस्य महिमा पनिष्ट सूरश् चिद् अस्मा अनु दाद् अपस्याम् ॥
स घा नो देवः सविता सहावा साविषद् वसुपतिर् वसूनि ।
विश्रयमाणो अमतिम् उरूचीम् मर्तभोजनम् अध रासते नः ॥
इमा गिरः सवितारं सुजिह्वम् पूर्णगभस्तिम् ईळते सुपाणिम् ।
चित्रं वयो बृहद् अस्मे दधातु यूयम् पात स्वस्तिभिः सदा नः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0