ऋग्वेद · अध्याय 7.041
प्रातर् अग्निम् प्रातर् इन्द्रं हवामहे प्रातर् मित्रावरुणा प्रातर् अश्विना ।
प्रातर् भगम् पूषणम् ब्रह्मणस् पतिम् प्रातः सोमम् उत रुद्रं हुवेम ॥
प्रातर्जितम् भगम् उग्रं हुवेम वयम् पुत्रम् अदितेर् यो विधर्ता ।
आध्रश् चिद् यम् मन्यमानस् तुरश् चिद् राजा चिद् यम् भगम् भक्षीत्य् आह ॥
भग प्रणेतर् भग सत्यराधो भगेमां धियम् उद् अवा ददन् नः ।
भग प्र णो जनय गोभिर् अश्वैर् भग प्र नृभिर् नृवन्तः स्याम ॥
उतेदानीम् भगवन्तः स्यामोत प्रपित्व उत मध्ये अह्नाम् ।
उतोदिता मघवन् सूर्यस्य वयं देवानां सुमतौ स्याम ॥
भग एव भगवाँ अस्तु देवास् तेन वयम् भगवन्तः स्याम ।
तं त्वा भग सर्व इज् जोहवीति स नो भग पुरएता भवेह ॥
सम् अध्वरायोषसो नमन्त दधिक्रावेव शुचये पदाय ।
अर्वाचीनं वसुविदम् भगं नो रथम् इवाश्वा वाजिन आ वहन्तु ॥
अश्वावतीर् गोमतीर् न उषासो वीरवतीः सदम् उच्छन्तु भद्राः ।
घृतं दुहाना विश्वतः प्रपीता यूयम् पात स्वस्तिभिः सदा नः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0