भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 7.040

7.040.01

ओ श्रुष्टिर् विदथ्या3 सम् एतु प्रति स्तोमं दधीमहि तुराणाम् ।
यद् अद्य देवः सविता सुवाति स्यामास्य रत्निनो विभागे ॥

7.040.02

मित्रस् तन् नो वरुणो रोदसी च द्युभक्तम् इन्द्रो अर्यमा ददातु ।
दिदेष्टु देव्य् अदिती रेक्णो वायुश् च यन् नियुवैते भगश् च ॥

7.040.03

सेद् उग्रो अस्तु मरुतः स शुष्मी यम् मर्त्यम् पृषदश्वा अवाथ ।
उतेम् अग्निः सरस्वती जुनन्ति न तस्य रायः पर्येतास्ति ॥

7.040.04

अयं हि नेता वरुण ऋतस्य मित्रो राजानो अर्यमापो धुः ।
सुहवा देव्य् अदितिर् अनर्वा ते नो अंहो अति पर्षन्न् अरिष्टान् ॥

7.040.05

अस्य देवस्य मीळ्हुषो वया विष्णोर् एषस्य प्रभृथे हविर्भिः ।
विदे हि रुद्रो रुद्रियम् महित्वं यासिष्टं वर्तिर् अश्विनाव् इरावत् ॥

7.040.06

मात्र पूषन्न् आघृण इरस्यो वरूत्री यद् रातिषाचश् च रासन् ।
मयोभुवो नो अर्वन्तो नि पान्तु वृष्टिम् परिज्मा वातो ददातु ॥

7.040.07

नू रोदसी अभिष्टुते वसिष्ठैर् ऋतावानो वरुणो मित्रो अग्निः ।
यच्छन्तु चन्द्रा उपमं नो अर्कं यूयम् पात स्वस्तिभिः सदा नः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc