भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 7.039

7.039.01

ऊर्ध्वो अग्निः सुमतिं वस्वो अश्रेत् प्रतीची जूर्णिर् देवतातिम् एति ।
भेजाते अद्री रथ्येव पन्थाम् ऋतं होता न इषितो यजाति ॥

7.039.02

प्र वावृजे सुप्रया बर्हिर् एषाम् आ विश्पतीव बीरिट इयाते ।
विशाम् अक्तोर् उषसः पूर्वहूतौ वायुः पूषा स्वस्तये नियुत्वान् ॥

7.039.03

ज्मया अत्र वसवो रन्त देवा उराव् अन्तरिक्षे मर्जयन्त शुभ्राः ।
अर्वाक् पथ उरुज्रयः कृणुध्वं श्रोता दूतस्य जग्मुषो नो अस्य ॥

7.039.04

ते हि यज्ञेषु यज्ञियास ऊमाः सधस्थं विश्वे अभि सन्ति देवाः ।
ताँ अध्वर उशतो यक्ष्य् अग्ने श्रुष्टी भगं नासत्या पुरंधिम् ॥

7.039.05

आग्ने गिरो दिव आ पृथिव्या मित्रं वह वरुणम् इन्द्रम् अग्निम् ।
आर्यमणम् अदितिं विष्णुम् एषां सरस्वती मरुतो मादयन्ताम् ॥

7.039.06

ररे हव्यम् मतिभिर् यज्ञियानां नक्षत् कामम् मर्त्यानाम् असिन्वन् ।
धाता रयिम् अविदस्यं सदासां सक्षीमहि युज्येभिर् नु देवैः ॥

7.039.07

नू रोदसी अभिष्टुते वसिष्ठैर् ऋतावानो वरुणो मित्रो अग्निः ।
यच्छन्तु चन्द्रा उपमं नो अर्कं यूयम् पात स्वस्तिभिः सदा नः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc