ऋग्वेद · अध्याय 7.038
उद् उ ष्य देवः सविता ययाम हिरण्ययीम् अमतिं याम् अशिश्रेत् ।
नूनम् भगो हव्यो मानुषेभिर् वि यो रत्ना पुरूवसुर् दधाति ॥
उद् उ तिष्ठ सवितः श्रुध्य् अ1स्य हिरण्यपाणे प्रभृताव् ऋतस्य ।
व्य् उ1र्वीम् पृथ्वीम् अमतिं सृजान आ नृभ्यो मर्तभोजनं सुवानः ॥
अपि ष्टुतः सविता देवो अस्तु यम् आ चिद् विश्वे वसवो गृणन्ति ।
स नः स्तोमान् नमस्य1श् चनो धाद् विश्वेभिः पातु पायुभिर् नि सूरीन् ॥
अभि यं देव्य् अदितिर् गृणाति सवं देवस्य सवितुर् जुषाणा ।
अभि सम्राजो वरुणो गृणन्त्य् अभि मित्रासो अर्यमा सजोषाः ॥
अभि ये मिथो वनुषः सपन्ते रातिं दिवो रातिषाचः पृथिव्याः ।
अहिर् बुध्न्य उत नः शृणोतु वरूत्र्य् एकधेनुभिर् नि पातु ॥
अनु तन् नो जास्पतिर् मंसीष्ट रत्नं देवस्य सवितुर् इयानः ।
भगम् उग्रो ऽवसे जोहवीति भगम् अनुग्रो अध याति रत्नम् ॥
शं नो भवन्तु वाजिनो हवेषु देवताता मितद्रवः स्वर्काः ।
जम्भयन्तो ऽहिं वृकं रक्षांसि सनेम्य् अस्मद् युयवन्न् अमीवाः ॥
वाजे-वाजे ऽवत वाजिनो नो धनेषु विप्रा अमृता ऋतज्ञाः ।
अस्य मध्वः पिबत मादयध्वं तृप्ता यात पथिभिर् देवयानैः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0