भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 7.030

7.030.01

आ नो देव शवसा याहि शुष्मिन् भवा वृध इन्द्र रायो अस्य ।
महे नृम्णाय नृपते सुवज्र महि क्षत्राय पौंस्याय शूर ॥

7.030.02

हवन्त उ त्वा हव्यं विवाचि तनूषु शूराः सूर्यस्य सातौ ।
त्वं विश्वेषु सेन्यो जनेषु त्वं वृत्राणि रन्धया सुहन्तु ॥

7.030.03

अहा यद् इन्द्र सुदिना व्युच्छान् दधो यत् केतुम् उपमं समत्सु ।
न्य् अ1ग्निः सीदद् असुरो न होता हुवानो अत्र सुभगाय देवान् ॥

7.030.04

वयं ते त इन्द्र ये च देव स्तवन्त शूर ददतो मघानि ।
यच्छा सूरिभ्य उपमं वरूथं स्वाभुवो जरणाम् अश्नवन्त ॥

7.030.05

वोचेमेद् इन्द्रम् मघवानम् एनम् महो रायो राधसो यद् ददन् नः ।
यो अर्चतो ब्रह्मकृतिम् अविष्ठो यूयम् पात स्वस्तिभिः सदा नः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc