भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 7.029

7.029.01

अयं सोम इन्द्र तुभ्यं सुन्व आ तु प्र याहि हरिवस् तदोकाः ।
पिबा त्व् अ1स्य सुषुतस्य चारोर् ददो मघानि मघवन्न् इयानः ॥

7.029.02

ब्रह्मन् वीर ब्रह्मकृतिं जुषाणो ऽर्वाचीनो हरिभिर् याहि तूयम् ।
अस्मिन्न् ऊ षु सवने मादयस्वोप ब्रह्माणि शृणव इमा नः ॥

7.029.03

का ते अस्त्य् अरंकृतिः सूक्तैः कदा नूनं ते मघवन् दाशेम ।
विश्वा मतीर् आ ततने त्वायाधा म इन्द्र शृणवो हवेमा ॥

7.029.04

उतो घा ते पुरुष्या3 इद् आसन् येषाम् पूर्वेषाम् अशृणोर् ऋषीणाम् ।
अधाहं त्वा मघवञ् जोहवीमि त्वं न इन्द्रासि प्रमतिः पितेव ॥

7.029.05

वोचेमेद् इन्द्रम् मघवानम् एनम् महो रायो राधसो यद् ददन् नः ।
यो अर्चतो ब्रह्मकृतिम् अविष्ठो यूयम् पात स्वस्तिभिः सदा नः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc