ऋग्वेद · अध्याय 7.028
ब्रह्मा ण इन्द्रोप याहि विद्वान् अर्वाञ्चस् ते हरयः सन्तु युक्ताः ।
विश्वे चिद् धि त्वा विहवन्त मर्ता अस्माकम् इच् छृणुहि विश्वमिन्व ॥
हवं त इन्द्र महिमा व्य् आनड् ब्रह्म यत् पासि शवसिन्न् ऋषीणाम् ।
आ यद् वज्रं दधिषे हस्त उग्र घोरः सन् क्रत्वा जनिष्ठा अषाळ्हः ॥
तव प्रणीतीन्द्र जोहुवानान् सं यन् नॄन् न रोदसी निनेथ ।
महे क्षत्राय शवसे हि जज्ञे ऽतूतुजिं चित् तूतुजिर् अशिश्नत् ॥
एभिर् न इन्द्राहभिर् दशस्य दुर्मित्रासो हि क्षितयः पवन्ते ।
प्रति यच् चष्टे अनृतम् अनेना अव द्विता वरुणो मायी नः सात् ॥
वोचेमेद् इन्द्रम् मघवानम् एनम् महो रायो राधसो यद् ददन् नः ।
यो अर्चतो ब्रह्मकृतिम् अविष्ठो यूयम् पात स्वस्तिभिः सदा नः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0