ऋग्वेद · अध्याय 7.027
इन्द्रं नरो नेमधिता हवन्ते यत् पार्या युनजते धियस् ताः ।
शूरो नृषाता शवसश् चकान आ गोमति व्रजे भजा त्वं नः ॥
य इन्द्र शुष्मो मघवन् ते अस्ति शिक्षा सखिभ्यः पुरुहूत नृभ्यः ।
त्वं हि दृळ्हा मघवन् विचेता अपा वृधि परिवृतं न राधः ॥
इन्द्रो राजा जगतश् चर्षणीनाम् अधि क्षमि विषुरूपं यद् अस्ति ।
ततो ददाति दाशुषे वसूनि चोदद् राध उपस्तुतश् चिद् अर्वाक् ॥
नू चिन् न इन्द्रो मघवा सहूती दानो वाजं नि यमते न ऊती ।
अनूना यस्य दक्षिणा पीपाय वामं नृभ्यो अभिवीता सखिभ्यः ॥
नू इन्द्र राये वरिवस् कृधी न आ ते मनो ववृत्याम मघाय ।
गोमद् अश्वावद् रथवद् व्यन्तो यूयम् पात स्वस्तिभिः सदा नः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0