भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 7.026

7.026.01

न सोम इन्द्रम् असुतो ममाद नाब्रह्माणो मघवानं सुतासः ।
तस्मा उक्थं जनये यज् जुजोषन् नृवन् नवीयः शृणवद् यथा नः ॥

7.026.02

उक्थ-उक्थे सोम इन्द्रम् ममाद नीथे-नीथे मघवानं सुतासः ।
यद् ईं सबाधः पितरं न पुत्राः समानदक्षा अवसे हवन्ते ॥

7.026.03

चकार ता कृणवन् नूनम् अन्या यानि ब्रुवन्ति वेधसः सुतेषु ।
जनीर् इव पतिर् एकः समानो नि मामृजे पुर इन्द्रः सु सर्वाः ॥

7.026.04

एवा तम् आहुर् उत शृण्व इन्द्र एको विभक्ता तरणिर् मघानाम् ।
मिथस्तुर ऊतयो यस्य पूर्वीर् अस्मे भद्राणि सश्चत प्रियाणि ॥

7.026.05

एवा वसिष्ठ इन्द्रम् ऊतये नॄन् कृष्टीनां वृषभं सुते गृणाति ।
सहस्रिण उप नो माहि वाजान् यूयम् पात स्वस्तिभिः सदा नः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc