ऋग्वेद · अध्याय 7.022
पिबा सोमम् इन्द्र मन्दतु त्वा यं ते सुषाव हर्यश्वाद्रिः ।
सोतुर् बाहुभ्यां सुयतो नार्वा ॥
यस् ते मदो युज्यश् चारुर् अस्ति येन वृत्राणि हर्यश्व हंसि ।
स त्वाम् इन्द्र प्रभूवसो ममत्तु ॥
बोधा सु मे मघवन् वाचम् एमां यां ते वसिष्ठो अर्चति प्रशस्तिम् ।
इमा ब्रह्म सधमादे जुषस्व ॥
श्रुधी हवं विपिपानस्याद्रेर् बोधा विप्रस्यार्चतो मनीषाम् ।
कृष्वा दुवांस्य् अन्तमा सचेमा ॥
न ते गिरो अपि मृष्ये तुरस्य न सुष्टुतिम् असुर्यस्य विद्वान् ।
सदा ते नाम स्वयशो विवक्मि ॥
भूरि हि ते सवना मानुषेषु भूरि मनीषी हवते त्वाम् इत् ।
मारे अस्मन् मघवञ् ज्योक् कः ॥
तुभ्येद् इमा सवना शूर विश्वा तुभ्यम् ब्रह्माणि वर्धना कृणोमि ।
त्वं नृभिर् हव्यो विश्वधासि ॥
नू चिन् नु ते मन्यमानस्य दस्मोद् अश्नुवन्ति महिमानम् उग्र ।
न वीर्यम् इन्द्र ते न राधः ॥
ये च पूर्व ऋषयो ये च नूत्ना इन्द्र ब्रह्माणि जनयन्त विप्राः ।
अस्मे ते सन्तु सख्या शिवानि यूयम् पात स्वस्तिभिः सदा नः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0