ऋग्वेद · अध्याय 7.021
असावि देवं गोऋजीकम् अन्धो न्य् अस्मिन्न् इन्द्रो जनुषेम् उवोच ।
बोधामसि त्वा हर्यश्व यज्ञैर् बोधा नः स्तोमम् अन्धसो मदेषु ॥
प्र यन्ति यज्ञं विपयन्ति बर्हिः सोममादो विदथे दुध्रवाचः ।
न्य् उ भ्रियन्ते यशसो गृभाद् आ दूरüपब्दो वृषणो नृषाचः ॥
त्वम् इन्द्र स्रवितवा अपस् कः परिष्ठिता अहिना शूर पूर्वीः ।
त्वद् वावक्रे रथ्यो3 न धेना रेजन्ते विश्वा कृत्रिमाणि भीषा ॥
भीमो विवेषायुधेभिर् एषाम् अपांसि विश्वा नर्याणि विद्वान् ।
इन्द्रः पुरो जर्हृषाणो वि दूधोद् वि वज्रहस्तो महिना जघान ॥
न यातव इन्द्र जूजुवुर् नो न वन्दना शविष्ठ वेद्याभिः ।
स शर्धद् अर्यो विषुणस्य जन्तोर् मा शिश्नदेवा अपि गुर् ऋतं नः ॥
अभि क्रत्वेन्द्र भूर् अध ज्मन् न ते विव्यङ् महिमानं रजांसि ।
स्वेना हि वृत्रं शवसा जघन्थ न शत्रुर् अन्तं विविदद् युधा ते ॥
देवाश् चित् ते असुर्याय पूर्वे ऽनु क्षत्राय ममिरे सहांसि ।
इन्द्रो मघानि दयते विषह्येन्द्रं वाजस्य जोहुवन्त सातौ ॥
कीरिश् चिद् धि त्वाम् अवसे जुहावेशानम् इन्द्र सौभगस्य भूरेः ।
अवो बभूथ शतमूते अस्मे अभिक्षत्तुस् त्वावतो वरूता ॥
सखायस् त इन्द्र विश्वह स्याम नमोवृधासो महिना तरुत्र ।
वन्वन्तु स्मा ते ऽवसा समीके3 ऽभीतिम् अर्यो वनुषां शवांसि ॥
स न इन्द्र त्वयताया इषे धास् त्मना च ये मघवानो जुनन्ति ।
वस्वी षु ते जरित्रे अस्तु शक्तिर् यूयम् पात स्वस्तिभिः सदा नः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0