भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 7.020

7.020.01

उग्रो जज्ञे वीर्याय स्वधावाञ् चक्रिर् अपो नर्यो यत् करिष्यन् ।
जग्मिर् युवा नृषदनम् अवोभिस् त्राता न इन्द्र एनसो महश् चित् ॥

7.020.02

हन्ता वृत्रम् इन्द्रः शूशुवानः प्रावीन् नु वीरो जरितारम् ऊती ।
कर्ता सुदासे अह वा उ लोकं दाता वसु मुहुर् आ दाशुषे भूत् ॥

7.020.03

युध्मो अनर्वा खजकृत् समद्वा शूरः सत्राषाड् जनुषेम् अषाळ्हः ।
व्य् आस इन्द्रः पृतनाः स्वोजा अधा विश्वं शत्रूयन्तं जघान ॥

7.020.04

उभे चिद् इन्द्र रोदसी महित्वा पप्राथ तविषीभिस् तुविष्मः ।
नि वज्रम् इन्द्रो हरिवान् मिमिक्षन् सम् अन्धसा मदेषु वा उवोच ॥

7.020.05

वृषा जजान वृषणं रणाय तम् उ चिन् नारी नर्यं ससूव ।
प्र यः सेनानीर् अध नृभ्यो अस्तीनः सत्वा गवेषणः स धृष्णुः ॥

7.020.06

नू चित् स भ्रेषते जनो न रेषन् मनो यो अस्य घोरम् आविवासात् ।
यज्ञैर् य इन्द्रे दधते दुवांसि क्षयत् स राय ऋतपा ऋतेजाः ॥

7.020.07

यद् इन्द्र पूर्वो अपराय शिक्षन्न् अयज् ज्यायान् कनीयसो देष्णम् ।
अमृत इत् पर्य् आसीत दूरम् आ चित्र चित्र्यम् भरा रयिं नः ॥

7.020.08

यस् त इन्द्र प्रियो जनो ददाशद् असन् निरेके अद्रिवः सखा ते ।
वयं ते अस्यां सुमतौ चनिष्ठाः स्याम वरूथे अघ्नतो नृपीतौ ॥

7.020.09

एष स्तोमो अचिक्रदद् वृषा त उत स्तामुर् मघवन्न् अक्रपिष्ट ।
रायस् कामो जरितारं त आगन् त्वम् अङ्ग शक्र वस्व आ शको नः ॥

7.020.10

स न इन्द्र त्वयताया इषे धास् त्मना च ये मघवानो जुनन्ति ।
वस्वी षु ते जरित्रे अस्तु शक्तिर् यूयम् पात स्वस्तिभिः सदा नः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc