ऋग्वेद · अध्याय 7.019
यस् तिग्मशृङ्गो वृषभो न भीम एकः कृष्टीश् च्यावयति प्र विश्वाः ।
यः शश्वतो अदाशुषो गयस्य प्रयन्तासि सुष्वितराय वेदः ॥
त्वं ह त्यद् इन्द्र कुत्सम् आवः शुश्रूषमाणस् तन्वा समर्ये ।
दासं यच् छुष्णं कुयवं न्य् अस्मा अरन्धय आर्जुनेयाय शिक्षन् ॥
त्वं धृष्णो धृषता वीतहव्यम् प्रावो विश्वाभिर् ऊतिभिः सुदासम् ।
प्र पौरुकुत्सिं त्रसदस्युम् आवः क्षेत्रसाता वृत्रहत्येषु पूरुम् ॥
त्वं नृभिर् नृमणो देववीतौ भूरीणि वृत्रा हर्यश्व हंसि ।
त्वं नि दस्युं चुमुरिं धुनिं चास्वापयो दभीतये सुहन्तु ॥
तव च्यौत्नानि वज्रहस्त तानि नव यत् पुरो नवतिं च सद्यः ।
निवेशने शततमाविवेषीर् अहञ् च वृत्रं नमुचिम् उताहन् ॥
सना ता त इन्द्र भोजनानि रातहव्याय दाशुषे सुदासे ।
वृष्णे ते हरी वृषणा युनज्मि व्यन्तु ब्रह्माणि पुरुशाक वाजम् ॥
मा ते अस्यां सहसावन् परिष्टाव् अघाय भूम हरिवः परादै ।
त्रायस्व नो ऽवृकेभिर् वरूथैस् तव प्रियासः सूरिषु स्याम ॥
प्रियास इत् ते मघवन्न् अभिष्टौ नरो मदेम शरणे सखायः ।
नि तुर्वशं नि याद्वं शिशीह्य् अतिथिग्वाय शंस्यं करिष्यन् ॥
सद्यश् चिन् नु ते मघवन्न् अभिष्टौ नरः शंसन्त्य् उक्थशास उक्था ।
ये ते हवेभिर् वि पणीँर् अदाशन्न् अस्मान् वृणीष्व युज्याय तस्मै ॥
एते स्तोमा नरां नृतम तुभ्यम् अस्मद्र्यञ्चो ददतो मघानि ।
तेषाम् इन्द्र वृत्रहत्ये शिवो भूः सखा च शूरो ऽविता च नृणाम् ॥
नू इन्द्र शूर स्तवमान ऊती ब्रह्मजूतस् तन्वा वावृधस्व ।
उप नो वाजान् मिमीह्य् उप स्तीन् यूयम् पात स्वस्तिभिः सदा नः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0