ऋग्वेद · अध्याय 7.018
त्वे ह यत् पितरश् चिन् न इन्द्र विश्वा वामा जरितारो असन्वन् ।
त्वे गावः सुदुघास् त्वे ह्य् अश्वास् त्वं वसु देवयते वनिष्ठः ॥
राजेव हि जनिभिः क्षेष्य् एवाव द्युभिर् अभि विदुष् कविः सन् ।
पिशा गिरो मघवन् गोभिर् अश्वैस् त्वायतः शिशीहि राये अस्मान् ॥
इमा उ त्वा पस्पृधानासो अत्र मन्द्रा गिरो देवयन्तीर् उप स्थुः ।
अर्वाची ते पथ्या राय एतु स्याम ते सुमताव् इन्द्र शर्मन् ॥
धेनुं न त्वा सूयवसे दुदुक्षन्न् उप ब्रह्माणि ससृजे वसिष्ठः ।
त्वाम् इन् मे गोपतिं विश्व आहा न इन्द्रः सुमतिं गन्त्व् अच्छ ॥
अर्णांसि चित् पप्रथाना सुदास इन्द्रो गाधान्य् अकृणोत् सुपारा ।
शर्धन्तं शिम्युम् उचथस्य नव्यः शापं सिन्धूनाम् अकृणोद् अशस्तीः ॥
पुरोळा इत् तुर्वशो यक्षुर् आसीद् राये मत्स्यासो निशिता अपीव ।
श्रुष्टिं चक्रुर् भृगवो द्रुह्यवश् च सखा सखायम् अतरद् विषूचोः ॥
आ पक्थासो भलानसो भनन्तालिनासो विषाणिनः शिवासः ।
आ यो ऽनयत् सधमा आर्यस्य गव्या तृत्सुभ्यो अजगन् युधा नॄन् ॥
दुराध्यो3 अदितिं स्रेवयन्तो ऽचेतसो वि जगृभ्रे परुष्णीम् ।
मह्नाविव्यक् पृथिवीम् पत्यमानः पशुष् कविर् अशयच् चायमानः ॥
ईयुर् अर्थं न न्यर्थम् परुष्णीम् आशुश् चनेद् अभिपित्वं जगाम ।
सुदास इन्द्रः सुतुकाँ अमित्रान् अरन्धयन् मानुषे वध्रिवाचः ॥
ईयुर् गावो न यवसाद् अगोपा यथाकृतम् अभि मित्रं चितासः ।
पृश्निगावः पृश्निनिप्रेषितासः श्रुष्टिं चक्रुर् नियुतो रन्तयश् च ॥
एकं च यो विंशतिं च श्रवस्या वैकर्णयोर् जनान् राजा न्य् अस्तः ।
दस्मो न सद्मन् नि शिशाति बर्हिः शूरः सर्गम् अकृणोद् इन्द्र एषाम् ॥
अध श्रुतं कवषं वृद्धम् अप्स्व् अनु द्रुह्युं नि वृणग् वज्रबाहुः ।
वृणाना अत्र सख्याय सख्यं त्वायन्तो ये अमदन्न् अनु त्वा ॥
वि सद्यो विश्वा दृंहितान्य् एषाम् इन्द्रः पुरः सहसा सप्त दर्दः ।
व्य् आनवस्य तृत्सवे गयम् भाग् जेष्म पूरुं विदथे मृध्रवाचम् ॥
नि गव्यवो ऽनवो द्रुह्यवश् च षष्टिः शता सुषुपुः षट् सहस्रा ।
षष्टिर् वीरासो अधि षड् दुवोयु विश्वेद् इन्द्रस्य वीर्या कृतानि ॥
इन्द्रेणैते तृत्सवो वेविषाणा आपो न सृष्टा अधवन्त नीचीः ।
दुर्मित्रासः प्रकलविन् मिमाना जहुर् विश्वानि भोजना सुदासे ॥
अर्धं वीरस्य शृतपाम् अनिन्द्रम् परा शर्धन्तं नुनुदे अभि क्षाम् ।
इन्द्रो मन्युम् मन्युम्यो मिमाय भेजे पथो वर्तनिम् पत्यमानः ॥
आध्रेण चित् तद् व् एकं चकार सिंह्यं चित् पेत्वेना जघान ।
अव स्रक्तीर् वेश्यावृश्चद् इन्द्रः प्रायच्छद् विश्वा भोजना सुदासे ॥
शश्वन्तो हि शत्रवो रारधुष् टे भेदस्य चिच् छर्धतो विन्द रन्धिम् ।
मर्ताँ एनः स्तुवतो यः कृणोति तिग्मं तस्मिन् नि जहि वज्रम् इन्द्र ॥
आवद् इन्द्रं यमुना तृत्सवश् च प्रात्र भेदं सर्वताता मुषायत् ।
अजासश् च शिग्रवो यक्षवश् च बलिं शीर्षाणि जभ्रुर् अश्व्यानि ॥
न त इन्द्र सुमतयो न रायः संचक्षे पूर्वा उषसो न नूत्नाः ।
देवकं चिन् मान्यमानं जघन्थाव त्मना बृहतः शम्बरम् भेत् ॥
प्र ये गृहाद् अममदुस् त्वाया पराशरः शतयातुर् वसिष्ठः ।
न ते भोजस्य सख्यम् मृषन्ताधा सूरिभ्यः सुदिना व्य् उच्छान् ॥
द्वे नप्तुर् देववतः शते गोर् द्वा रथा वधूमन्ता सुदासः ।
अर्हन्न् अग्ने पैजवनस्य दानं होतेव सद्म पर्य् एमि रेभन् ॥
चत्वारो मा पैजवनस्य दानाः स्मद्दिष्टयः कृशनिनो निरेके ।
ऋज्रासो मा पृथिविष्ठाः सुदासस् तोकं तोकाय श्रवसे वहन्ति ॥
यस्य श्रवो रोदसी अन्तर् उर्वी शीर्ष्णे-शीर्ष्णे विबभाजा विभक्ता ।
सप्तेद् इन्द्रं न स्रवतो गृणन्ति नि युध्यामधिम् अशिशाद् अभीके ॥
इमं नरो मरुतः सश्चतानु दिवोदासं न पितरं सुदासः ।
अविष्टना पैजवनस्य केतं दूणाशं क्षत्रम् अजरं दुवोयु ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0