ऋग्वेद · अध्याय 7.016
एना वो अग्निं नमसोर्जो नपातम् आ हुवे ।
प्रियं चेतिष्ठम् अरतिं स्वध्वरं विश्वस्य दूतम् अमृतम् ॥
स योजते अरुषा विश्वभोजसा स दुद्रवत् स्वाहुतः ।
सुब्रह्मा यज्ञः सुशमी वसूनां देवं राधो जनानाम् ॥
उद् अस्य शोचिर् अस्थाद् आजुह्वानस्य मीळ्हुषः ।
उद् धूमासो अरुषासो दिविस्पृशः सम् अग्निम् इन्धते नरः ॥
तं त्वा दूतं कृण्महे यशस्तमं देवाँ आ वीतये वह ।
विश्वा सूनो सहसो मर्तभोजना रास्व तद् यत् त्वेमहे ॥
त्वम् अग्ने गृहपतिस् त्वं होता नो अध्वरे ।
त्वम् पोता विश्ववार प्रचेता यक्षि वेषि च वार्यम् ॥
कृधि रत्नं यजमानाय सुक्रतो त्वं हि रत्नधा असि ।
आ न ऋते शिशीहि विश्वम् ऋत्विजं सुशंसो यश् च दक्षते ॥
त्वे अग्ने स्वाहुत प्रियासः सन्तु सूरयः ।
यन्तारो ये मघवानो जनानाम् ऊर्वान् दयन्त गोनाम् ॥
येषाम् इळा घृतहस्ता दुरोण आँ अपि प्राता निषीदति ।
ताँस् त्रायस्व सहस्य द्रुहो निदो यच्छा नः शर्म दीर्घश्रुत् ॥
स मन्द्रया च जिह्वया वह्निर् आसा विदुष्टरः ।
अग्ने रयिम् मघवद्भ्यो न आ वह हव्यदातिं च सूदय ॥
ये राधांसि ददत्य् अश्व्या मघा कामेन श्रवसो महः ।
ताँ अंहसः पिपृहि पर्तृभिष् ट्वं शतम् पूर्भिर् यविष्ठ्य ॥
देवो वो द्रविणोदाः पूर्णां विवष्ट्य् आसिचम् ।
उद् वा सिञ्चध्वम् उप वा पृणध्वम् आद् इद् वो देव ओहते ॥
तं होतारम् अध्वरस्य प्रचेतसं वह्निं देवा अकृण्वत ।
दधाति रत्नं विधते सुवीर्यम् अग्निर् जनाय दाशुषे ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0