ऋग्वेद · अध्याय 7.015
उपसद्याय मीळ्हुष आस्ये जुहुता हविः ।
यो नो नेदिष्ठम् आप्यम् ॥
यः पञ्च चर्षणीर् अभि निषसाद दमे-दमे ।
कविर् गृहपतिर् युवा ॥
स नो वेदो अमात्यम् अग्नी रक्षतु विश्वतः ।
उतास्मान् पात्व् अंहसः ॥
नवं नु स्तोमम् अग्नये दिवः श्येनाय जीजनम् ।
वस्वः कुविद् वनाति नः ॥
स्पार्हा यस्य श्रियो दृशे रयिर् वीरवतो यथा ।
अग्रे यज्ञस्य शोचतः ॥
सेमां वेतु वषट्कृतिम् अग्निर् जुषत नो गिरः ।
यजिष्ठो हव्यवाहनः ॥
नि त्वा नक्ष्य विश्पते द्युमन्तं देव धीमहि ।
सुवीरम् अग्न आहुत ॥
क्षप उस्रश् च दीदिहि स्वग्नयस् त्वया वयम् ।
सुवीरस् त्वम् अस्मयुः ॥
उप त्वा सातये नरो विप्रासो यन्ति धीतिभिः ।
उपाक्षरा सहस्रिणी ॥
अग्नी रक्षांसि सेधति शुक्रशोचिर् अमर्त्यः ।
शुचिः पावक ईड्यः ॥
स नो राधांस्य् आ भरेशानः सहसो यहो ।
भगश् च दातु वार्यम् ॥
त्वम् अग्ने वीरवद् यशो देवश् च सविता भगः ।
दितिश् च दाति वार्यम् ॥
अग्ने रक्षा णो अंहसः प्रति ष्म देव रीषतः ।
तपिष्ठैर् अजरो दह ॥
अधा मही न आयस्य् अनाधृष्टो नृपीतये ।
पूर् भवा शतभुजिः ॥
त्वं नः पाह्य् अंहसो दोषावस्तर् अघायतः ।
दिवा नक्तम् अदाभ्य ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0