भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 7.007

7.007.01

प्र वो देवं चित् सहसानम् अग्निम् अश्वं न वाजिनं हिषे नमोभिः ।
भवा नो दूतो अध्वरस्य विद्वान् त्मना देवेषु विविदे मितद्रुः ॥

7.007.02

आ याह्य् अग्ने पथ्या3 अनु स्वा मन्द्रो देवानां सख्यं जुषाणः ।
आ सानु शुष्मैर् नदयन् पृथिव्या जम्भेभिर् विश्वम् उशधग् वनानि ॥

7.007.03

प्राचीनो यज्ञः सुधितं हि बर्हिः प्रीणीते अग्निर् ईळितो न होता ।
आ मातरा विश्ववारे हुवानो यतो यविष्ठ जज्ञिषे सुशेवः ॥

7.007.04

सद्यो अध्वरे रथिरं जनन्त मानुषासो विचेतसो य एषाम् ।
विशाम् अधायि विश्पतिर् दुरोणे3 ऽग्निर् मन्द्रो मधुवचा ऋतावा ॥

7.007.05

असादि वृतो वह्निर् आजगन्वान् अग्निर् ब्रह्मा नृषदने विधर्ता ।
द्यौश् च यम् पृथिवी वावृधाते आ यं होता यजति विश्ववारम् ॥

7.007.06

एते द्युम्नेभिर् विश्वम् आतिरन्त मन्त्रं ये वारं नर्या अतक्षन् ।
प्र ये विशस् तिरन्त श्रोषमाणा आ ये मे अस्य दीधयन्न् ऋतस्य ॥

7.007.07

नू त्वाम् अग्न ईमहे वसिष्ठा ईशानं सूनो सहसो वसूनाम् ।
इषं स्तोतृभ्यो मघवद्भ्य आनड् यूयम् पात स्वस्तिभिः सदा नः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc