ऋग्वेद · अध्याय 7.006
प्र सम्राजो असुरस्य प्रशस्तिम् पुंसः कृष्टीनाम् अनुमाद्यस्य ।
इन्द्रस्येव प्र तवसस् कृतानि वन्दे दारुं वन्दमानो विवक्मि ॥
कविं केतुं धासिम् भानुम् अद्रेर् हिन्वन्ति शं राज्यं रोदस्योः ।
पुरंदरस्य गीर्भिर् आ विवासे ऽग्नेर् व्रतानि पूर्व्या महानि ॥
न्य् अक्रतून् ग्रथिनो मृध्रवाचः पणीँर् अश्रद्धाँ अवृधाँ अयज्ञान् ।
प्र-प्र तान् दस्यूँर् अग्निर् विवाय पूर्वश् चकारापराँ अयज्यून् ॥
यो अपाचीने तमसि मदन्तीः प्राचीश् चकार नृतमः शचीभिः ।
तम् ईशानं वस्वो अग्निं गृणीषे ऽनानतं दमयन्तम् पृतन्यून् ॥
यो देह्यो3 अनमयद् वधस्नैर् यो अर्यपत्नीर् उषसश् चकार ।
स निरुध्या नहुषो यह्वो अग्निर् विशश् चक्रे बलिहृतः सहोभिः ॥
यस्य शर्मन्न् उप विश्वे जनास एवैस् तस्थुः सुमतिम् भिक्षमाणाः ।
वैश्वानरो वरम् आ रोदस्योर् आग्निः ससाद पित्रोर् उपस्थम् ॥
आ देवो ददे बुध्न्या3 वसूनि वैश्वानर उदिता सूर्यस्य ।
आ समुद्राद् अवराद् आ परस्माद् आग्निर् ददे दिव आ पृथिव्याः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0