ऋग्वेद · अध्याय 7.005
प्राग्नये तवसे भरध्वं गिरं दिवो अरतये पृथिव्याः ।
यो विश्वेषाम् अमृतानाम् उपस्थे वैश्वानरो वावृधे जागृवद्भिः ॥
पृष्टो दिवि धाय्य् अग्निः पृथिव्यां नेता सिन्धूनां वृषभः स्तियानाम् ।
स मानुषीर् अभि विशो वि भाति वैश्वानरो वावृधानो वरेण ॥
त्वद् भिया विश आयन्न् असिक्नीर् असमना जहतीर् भोजनानि ।
वैश्वानर पूरवे शोशुचानः पुरो यद् अग्ने दरयन्न् अदीदेः ॥
तव त्रिधातु पृथिवी उत द्यौर् वैश्वानर व्रतम् अग्ने सचन्त ।
त्वम् भासा रोदसी आ ततन्थाजस्रेण शोचिषा शोशुचानः ॥
त्वाम् अग्ने हरितो वावशाना गिरः सचन्ते धुनयो घृताचीः ।
पतिं कृष्टीनां रथ्यं रयीणां वैश्वानरम् उषसां केतुम् अह्नाम् ॥
त्वे असुर्य1ं वसवो न्य् ऋण्वन् क्रतुं हि ते मित्रमहो जुषन्त ।
त्वं दस्यूँर् ओकसो अग्न आज उरु ज्योतिर् जनयन्न् आर्याय ॥
स जायमानः परमे व्योमन् वायुर् न पाथः परि पासि सद्यः ।
त्वम् भुवना जनयन्न् अभि क्रन्न् अपत्याय जातवेदो दशस्यन् ॥
ताम् अग्ने अस्मे इषम् एरयस्व वैश्वानर द्युमतीं जातवेदः ।
यया राधः पिन्वसि विश्ववार पृथु श्रवो दाशुषे मर्त्याय ॥
तं नो अग्ने मघवद्भ्यः पुरुक्षुं रयिं नि वाजं श्रुत्यं युवस्व ।
वैश्वानर महि नः शर्म यच्छ रुद्रेभिर् अग्ने वसुभिः सजोषाः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0