भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 6.075

6.075.01

जीमूतस्येव भवति प्रतीकं यद् वर्मी याति समदाम् उपस्थे ।
अनाविद्धया तन्वा जय त्वं स त्वा वर्मणो महिमा पिपर्तु ॥

6.075.02

धन्वना गा धन्वनाजिं जयेम धन्वना तीव्राः समदो जयेम ।
धनुः शत्रोर् अपकामं कृणोति धन्वना सर्वाः प्रदिशो जयेम ॥

6.075.03

वक्ष्यन्तीवेद् आ गनीगन्ति कर्णम् प्रियं सखायम् परिषस्वजाना ।
योषेव शिङ्क्ते वितताधि धन्वञ् ज्या इयं समने पारयन्ती ॥

6.075.04

ते आचरन्ती समनेव योषा मातेव पुत्रम् बिभृताम् उपस्थे ।
अप शत्रून् विध्यतां संविदाने आर्त्नी इमे विष्फुरन्ती अमित्रान् ॥

6.075.05

बह्वीनाम् पिता बहुर् अस्य पुत्रश् चिश्चा कृणोति समनावगत्य ।
इषुधिः सङ्काः पृतनाश् च सर्वाः पृष्ठे निनद्धो जयति प्रसूतः ॥

6.075.06

रथे तिष्ठन् नयति वाजिनः पुरो यत्र-यत्र कामयते सुषारथिः ।
अभीशूनाम् महिमानम् पनायत मनः पश्चाद् अनु यच्छन्ति रश्मयः ॥

6.075.07

तीव्रान् घोषान् कृण्वते वृषपाणयो ऽश्वा रथेभिः सह वाजयन्तः ।
अवक्रामन्तः प्रपदैर् अमित्रान् क्षिणन्ति शत्रूँर् अनपव्ययन्तः ॥

6.075.08

रथवाहनं हविर् अस्य नाम यत्रायुधं निहितम् अस्य वर्म ।
तत्रा रथम् उप शग्मं सदेम विश्वाहा वयं सुमनस्यमानाः ॥

6.075.09

स्वादुषंसदः पितरो वयोधाः कृच्छ्रेश्रितः शक्तीवन्तो गभीराः ।
चित्रसेना इषुबला अमृध्राः सतोवीरा उरवो व्रातसाहाः ॥

6.075.10

ब्राह्मणासः पितरः सोम्यासः शिवे नो द्यावापृथिवी अनेहसा ।
पूषा नः पातु दुरिताद् ऋतावृधो रक्षा माकिर् नो अघशंस ईशत ॥

6.075.11

सुपर्णं वस्ते मृगो अस्या दन्तो गोभिः संनद्धा पतति प्रसूता ।
यत्रा नरः सं च वि च द्रवन्ति तत्रास्मभ्यम् इषवः शर्म यंसन् ॥

6.075.12

ऋजीते परि वृङ्धि नो ऽश्मा भवतु नस् तनूः ।
सोमो अधि ब्रवीतु नो ऽदितिः शर्म यच्छतु ॥

6.075.13

आ जङ्घन्ति सान्व् एषां जघनाँ उप जिघ्नते ।
अश्वाजनि प्रचेतसो ऽश्वान् समत्सु चोदय ॥

6.075.14

अहिर् इव भोगैः पर्य् एति बाहुं ज्याया हेतिम् परिबाधमानः ।
हस्तघ्नो विश्वा वयुनानि विद्वान् पुमान् पुमांसम् परि पातु विश्वतः ॥

6.075.15

आलाक्ता या रुरुशीर्ष्ण्य् अथो यस्या अयो मुखम् ।
इदम् पर्जन्यरेतस इष्वै देव्यै बृहन् नमः ॥

6.075.16

अवसृष्टा परा पत शरव्ये ब्रह्मसंशिते ।
गच्छामित्रान् प्र पद्यस्व मामीषां कं चनोच् छिषः ॥

6.075.17

यत्र बाणाः सम्पतन्ति कुमारा विशिखा इव ।
तत्रा नो ब्रह्मणस् पतिर् अदितिः शर्म यच्छतु विश्वाहा शर्म यच्छतु ॥

6.075.18

मर्माणि ते वर्मणा छादयामि सोमस् त्वा राजामृतेनानु वस्ताम् ।
उरोर् वरीयो वरुणस् ते कृणोतु जयन्तं त्वानु देवा मदन्तु ॥

6.075.19

यो नः स्वो अरणो यश् च निष्ट्यो जिघांसति ।
देवास् तं सर्वे धूर्वन्तु ब्रह्म वर्म ममान्तरम् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc