भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 6.074

6.074.01

सोमारुद्रा धारयेथाम् असुर्य1म् प्र वाम् इष्टयो ऽरम् अश्नुवन्तु ।
दमे-दमे सप्त रत्ना दधाना शं नो भूतं द्विपदे शं चतुष्पदे ॥

6.074.02

सोमारुद्रा वि वृहतं विषूचीम् अमीवा या नो गयम् आविवेश ।
आरे बाधेथां निरृतिम् पराचैर् अस्मे भद्रा सौश्रवसानि सन्तु ॥

6.074.03

सोमारुद्रा युवम् एतान्य् अस्मे विश्वा तनूषु भेषजानि धत्तम् ।
अव स्यतम् मुञ्चतं यन् नो अस्ति तनूषु बद्धं कृतम् एनो अस्मत् ॥

6.074.04

तिग्मायुधौ तिग्महेती सुशेवौ सोमारुद्राव् इह सु मृळतं नः ।
प्र नो मुञ्चतं वरुणस्य पाशाद् गोपायतं नः सुमनस्यमाना ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc