ऋग्वेद · अध्याय 6.072
इन्द्रासोमा महि तद् वाम् महित्वं युवम् महानि प्रथमानि चक्रथुः ।
युवं सूर्यं विविदथुर् युवं स्व1र् विश्वा तमांस्य् अहतं निदश् च ॥
इन्द्रासोमा वासयथ उषासम् उत् सूर्यं नयथो ज्योतिषा सह ।
उप द्यां स्कम्भथुः स्कम्भनेनाप्रथतम् पृथिवीम् मातरं वि ॥
इन्द्रासोमाव् अहिम् अपः परिष्ठां हथो वृत्रम् अनु वां द्यौर् अमन्यत ।
प्रार्णांस्य् ऐरयतं नदीनाम् आ समुद्राणि पप्रथुः पुरूणि ॥
इन्द्रासोमा पक्वम् आमास्व् अन्तर् नि गवाम् इद् दधथुर् वक्षणासु ।
जगृभथुर् अनपिनद्धम् आसु रुशच् चित्रासु जगतीष्व् अन्तः ॥
इन्द्रासोमा युवम् अङ्ग तरुत्रम् अपत्यसाचं श्रुत्यं रराथे ।
युवं शुष्मं नर्यं चर्षणिभ्यः सं विव्यथुः पृतनाषाहम् उग्रा ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0