ऋग्वेद · अध्याय 6.071
उद् उ ष्य देवः सविता हिरण्यया बाहू अयंस्त सवनाय सुक्रतुः ।
घृतेन पाणी अभि प्रुष्णुते मखो युवा सुदक्षो रजसो विधर्मणि ॥
देवस्य वयं सवितुः सवीमनि श्रेष्ठे स्याम वसुनश् च दावने ।
यो विश्वस्य द्विपदो यश् चतुष्पदो निवेशने प्रसवे चासि भूमनः ॥
अदब्धेभिः सवितः पायुभिष् ट्वं शिवेभिर् अद्य परि पाहि नो गयम् ।
हिरण्यजिह्वः सुविताय नव्यसे रक्षा माकिर् नो अघशंस ईशत ॥
उद् उ ष्य देवः सविता दमूना हिरण्यपाणिः प्रतिदोषम् अस्थात् ।
अयोहनुर् यजतो मन्द्रजिह्व आ दाशुषे सुवति भूरि वामम् ॥
उद् ऊ अयाँ उपवक्तेव बाहू हिरण्यया सविता सुप्रतीका ।
दिवो रोहांस्य् अरुहत् पृथिव्या अरीरमत् पतयत् कच् चिद् अभ्वम् ॥
वामम् अद्य सवितर् वामम् उ श्वो दिवे-दिवे वामम् अस्मभ्यं सावीः ।
वामस्य हि क्षयस्य देव भूरेर् अया धिया वामभाजः स्याम ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0