ऋग्वेद · अध्याय 6.066
वपुर् नु तच् चिकितुषे चिद् अस्तु समानं नाम धेनु पत्यमानम् ।
मर्तेष्व् अन्यद् दोहसे पीपाय सकृच् छुक्रं दुदुहे पृश्निर् ऊधः ॥
ये अग्नयो न शोशुचन्न् इधाना द्विर् यत् त्रिर् मरुतो वावृधन्त ।
अरेणवो हिरण्ययास एषां साकं नृम्णैः पौंस्येभिश् च भूवन् ॥
रुद्रस्य ये मीळ्हुषः सन्ति पुत्रा याँश् चो नु दाधृविर् भरध्यै ।
विदे हि माता महो मही षा सेत् पृश्निः सुभ्वे3 गर्भम् आधात् ॥
न य ईषन्ते जनुषो ऽया न्व् अ1न्तः सन्तो ऽवद्यानि पुनानाः ।
निर् यद् दुह्रे शुचयो ऽनु जोषम् अनु श्रिया तन्वम् उक्षमाणाः ॥
मक्षू न येषु दोहसे चिद् अया आ नाम धृष्णु मारुतं दधानाः ।
न ये स्तौना अयासो मह्ना नू चित् सुदानुर् अव यासद् उग्रान् ॥
त इद् उग्राः शवसा धृष्णुषेणा उभे युजन्त रोदसी सुमेके ।
अध स्मैषु रोदसी स्वशोचिर् आमवत्सु तस्थौ न रोकः ॥
अनेनो वो मरुतो यामो अस्त्व् अनश्वश् चिद् यम् अजत्य् अरथीः ।
अनवसो अनभीशू रजस्तूर् वि रोदसी पथ्या याति साधन् ॥
नास्य वर्ता न तरुता न्व् अस्ति मरुतो यम् अवथ वाजसातौ ।
तोके वा गोषु तनये यम् अप्सु स व्रजं दर्ता पार्ये अध द्योः ॥
प्र चित्रम् अर्कं गृणते तुराय मारुताय स्वतवसे भरध्वम् ।
ये सहांसि सहसा सहन्ते रेजते अग्ने पृथिवी मखेभ्यः ॥
त्विषीमन्तो अध्वरस्येव दिद्युत् तृषुच्यवसो जुह्वो3 नाग्नेः ।
अर्चत्रयो धुनयो न वीरा भ्राजज्जन्मानो मरुतो अधृष्टाः ॥
तं वृधन्तम् मारुतम् भ्राजदृष्टिं रुद्रस्य सूनुं हवसा विवासे ।
दिवः शर्धाय शुचयो मनीषा गिरयो नाप उग्रा अस्पृध्रन् ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0