भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 6.065

6.065.01

एषा स्या नो दुहिता दिवोजाः क्षितीर् उच्छन्ती मानुषीर् अजीगः ।
या भानुना रुशता राम्यास्व् अज्ञायि तिरस् तमसश् चिद् अक्तून् ॥

6.065.02

वि तद् ययुर् अरुणयुग्भिर् अश्वैश् चित्रम् भान्त्य् उषसश् चन्द्ररथाः ।
अग्रं यज्ञस्य बृहतो नयन्तीर् वि ता बाधन्ते तम ऊर्म्यायाः ॥

6.065.03

श्रवो वाजम् इषम् ऊर्जं वहन्तीर् नि दाशुष उषसो मर्त्याय ।
मघोनीर् वीरवत् पत्यमाना अवो धात विधते रत्नम् अद्य ॥

6.065.04

इदा हि वो विधते रत्नम् अस्तीदा वीराय दाशुष उषासः ।
इदा विप्राय जरते यद् उक्था नि ष्म मावते वहथा पुरा चित् ॥

6.065.05

इदा हि त उषो अद्रिसानो गोत्रा गवाम् अङ्गिरसो गृणन्ति ।
व्य् अ1र्केण बिभिदुर् ब्रह्मणा च सत्या नृणाम् अभवद् देवहूतिः ॥

6.065.06

उच्छा दिवो दुहितः प्रत्नवन् नो भरद्वाजवद् विधते मघोनि ।
सुवीरं रयिं गृणते रिरीह्य् उरुगायम् अधि धेहि श्रवो नः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc