ऋग्वेद · अध्याय 6.064
उद् उ श्रिय उषसो रोचमाना अस्थुर् अपां नोर्मयो रुशन्तः ।
कृणोति विश्वा सुपथा सुगान्य् अभूद् उ वस्वी दक्षिणा मघोनी ॥
भद्रा ददृक्ष उर्विया वि भास्य् उत् ते शोचिर् भानवो द्याम् अपप्तन् ।
आविर् वक्षः कृणुषे शुम्भमानोषो देवि रोचमाना महोभिः ॥
वहन्ति सीम् अरुणासो रुशन्तो गावः सुभगाम् उर्विया प्रथानाम् ।
अपेजते शूरो अस्तेव शत्रून् बाधते तमो अजिरो न वोळ्हा ॥
सुगोत ते सुपथा पर्वतेष्व् अवाते अपस् तरसि स्वभानो ।
सा न आ वह पृथुयामन्न् ऋष्वे रयिं दिवो दुहितर् इषयध्यै ॥
सा वह योक्षभिर् अवातोषो वरं वहसि जोषम् अनु ।
त्वं दिवो दुहितर् या ह देवी पूर्वहूतौ मंहना दर्शता भूः ॥
उत् ते वयश् चिद् वसतेर् अपप्तन् नरश् च ये पितुभाजो व्युष्टौ ।
अमा सते वहसि भूरि वामम् उषो देवि दाशुषे मर्त्याय ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0