भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 6.063

6.063.01

क्व1 त्या वल्गू पुरुहूताद्य दूतो न स्तोमो ऽविदन् नमस्वान् ।
आ यो अर्वाङ् नासत्या ववर्त प्रेष्ठा ह्य् असथो अस्य मन्मन् ॥

6.063.02

अरम् मे गन्तं हवनायास्मै गृणाना यथा पिबाथो अन्धः ।
परि ह त्यद् वर्तिर् याथो रिषो न यत् परो नान्तरस् तुतुर्यात् ॥

6.063.03

अकारि वाम् अन्धसो वरीमन्न् अस्तारि बर्हिः सुप्रायणतमम् ।
उत्तानहस्तो युवयुर् ववन्दा वां नक्षन्तो अद्रय आञ्जन् ॥

6.063.04

ऊर्ध्वो वाम् अग्निर् अध्वरेष्व् अस्थात् प्र रातिर् एति जूर्णिनी घृताची ।
प्र होता गूर्तमना उराणो ऽयुक्त यो नासत्या हवीमन् ॥

6.063.05

अधि श्रिये दुहिता सूर्यस्य रथं तस्थौ पुरुभुजा शतोतिम् ।
प्र मायाभिर् मायिना भूतम् अत्र नरा नृतू जनिमन् यज्ञियानाम् ॥

6.063.06

युवं श्रीभिर् दर्शताभिर् आभिः शुभे पुष्टिम् ऊहथुः सूर्यायाः ।
प्र वां वयो वपुषे ऽनु पप्तन् नक्षद् वाणी सुष्टुता धिष्ण्या वाम् ॥

6.063.07

आ वां वयो ऽश्वासो वहिष्ठा अभि प्रयो नासत्या वहन्तु ।
प्र वां रथो मनोजवा असर्जीषः पृक्ष इषिधो अनु पूर्वीः ॥

6.063.08

पुरु हि वाम् पुरुभुजा देष्णं धेनुं न इषम् पिन्वतम् असक्राम् ।
स्तुतश् च वाम् माध्वी सुष्टुतिश् च रसाश् च ये वाम् अनु रातिम् अग्मन् ॥

6.063.09

उत म ऋज्रे पुरयस्य रघ्वी सुमीळ्हे शतम् पेरुके च पक्वा ।
शाण्डो दाद् धिरणिनः स्मद्दिष्टीन् दश वशासो अभिषाच ऋष्वान् ॥

6.063.10

सं वां शता नासत्या सहस्राश्वानाम् पुरुपन्था गिरे दात् ।
भरद्वाजाय वीर नू गिरे दाद् धता रक्षांसि पुरुदंससा स्युः ॥

6.063.11

आ वां सुम्ने वरिमन् सूरिभिः ष्याम् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc