भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 6.062

6.062.01

स्तुषे नरा दिवो अस्य प्रसन्ताश्विना हुवे जरमाणो अर्कैः ।
या सद्य उस्रा व्युषि ज्मो अन्तान् युयूषतः पर्य् उरू वरांसि ॥

6.062.02

ता यज्ञम् आ शुचिभिश् चक्रमाणा रथस्य भानुं रुरुचू रजोभिः ।
पुरू वरांस्य् अमिता मिमानापो धन्वान्य् अति याथो अज्रान् ॥

6.062.03

ता ह त्यद् वर्तिर् यद् अरध्रम् उग्रेत्था धिय ऊहथुः शश्वद् अश्वैः ।
मनोजवेभिर् इषिरैः शयध्यै परि व्यथिर् दाशुषो मर्त्यस्य ॥

6.062.04

ता नव्यसो जरमाणस्य मन्मोप भूषतो युयुजानसप्ती ।
शुभम् पृक्षम् इषम् ऊर्जं वहन्ता होता यक्षत् प्रत्नो अध्रुग् युवाना ॥

6.062.05

ता वल्गू दस्रा पुरुशाकतमा प्रत्ना नव्यसा वचसा विवासे ।
या शंसते स्तुवते शम्भविष्ठा बभूवतुर् गृणते चित्रराती ॥

6.062.06

ता भुज्युं विभिर् अद्भ्यः समुद्रात् तुग्रस्य सूनुम् ऊहथू रजोभिः ।
अरेणुभिर् योजनेभिर् भुजन्ता पतत्रिभिर् अर्णसो निर् उपस्थात् ॥

6.062.07

वि जयुषा रथ्या यातम् अद्रिं श्रुतं हवं वृषणा वध्रिमत्याः ।
दशस्यन्ता शयवे पिप्यथुर् गाम् इति च्यवाना सुमतिम् भुरण्यू ॥

6.062.08

यद् रोदसी प्रदिवो अस्ति भूमा हेळो देवानाम् उत मर्त्यत्रा ।
तद् आदित्या वसवो रुद्रियासो रक्षोयुजे तपुर् अघं दधात ॥

6.062.09

य ईं राजानाव् ऋतुथा विदधद् रजसो मित्रो वरुणश् चिकेतत् ।
गम्भीराय रक्षसे हेतिम् अस्य द्रोघाय चिद् वचस आनवाय ॥

6.062.10

अन्तरैश् चक्रैस् तनयाय वर्तिर् द्युमता यातं नृवता रथेन ।
सनुत्येन त्यजसा मर्त्यस्य वनुष्यताम् अपि शीर्षा ववृक्तम् ॥

6.062.11

आ परमाभिर् उत मध्यमाभिर् नियुद्भिर् यातम् अवमाभिर् अर्वाक् ।
दृळ्हस्य चिद् गोमतो वि व्रजस्य दुरो वर्तं गृणते चित्रराती ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc