ऋग्वेद · अध्याय 6.061
इयम् अददाद् रभसम् ऋणच्युतं दिवोदासं वध्र्यश्वाय दाशुषे ।
या शश्वन्तम् आचखादावसम् पणिं ता ते दात्राणि तविषा सरस्वति ॥
इयं शुष्मेभिर् बिसखा इवारुजत् सानु गिरीणां तविषेभिर् ऊर्मिभिः ।
पारावतघ्नीम् अवसे सुवृक्तिभिः सरस्वतीम् आ विवासेम धीतिभिः ॥
सरस्वति देवनिदो नि बर्हय प्रजां विश्वस्य बृसयस्य मायिनः ।
उत क्षितिभ्यो ऽवनीर् अविन्दो विषम् एभ्यो अस्रवो वाजिनीवति ॥
प्र णो देवी सरस्वती वाजेभिर् वाजिनीवती ।
धीनाम् अवित्र्य् अवतु ॥
यस् त्वा देवि सरस्वत्य् उपब्रूते धने हिते ।
इन्द्रं न वृत्रतूर्ये ॥
त्वं देवि सरस्वत्य् अवा वाजेषु वाजिनि ।
रदा पूषेव नः सनिम् ॥
उत स्या नः सरस्वती घोरा हिरण्यवर्तनिः ।
वृत्रघ्नी वष्टि सुष्टुतिम् ॥
यस्या अनन्तो अह्रुतस् त्वेषश् चरिष्णुर् अर्णवः ।
अमश् चरति रोरुवत् ॥
सा नो विश्वा अति द्विषः स्वसॄर् अन्या ऋतावरी ।
अतन्न् अहेव सूर्यः ॥
उत नः प्रिया प्रियासु सप्तस्वसा सुजुष्टा ।
सरस्वती स्तोम्या भूत् ॥
आपप्रुषी पार्थिवान्य् उरु रजो अन्तरिक्षम् ।
सरस्वती निदस् पातु ॥
त्रिषधस्था सप्तधातुः पञ्च जाता वर्धयन्ती ।
वाजे-वाजे हव्या भूत् ॥
प्र या महिम्ना महिनासु चेकिते द्युम्नेभिर् अन्या अपसाम् अपस्तमा ।
रथ इव बृहती विभ्वने कृतोपस्तुत्या चिकितुषा सरस्वती ॥
सरस्वत्य् अभि नो नेषि वस्यो माप स्फरीः पयसा मा न आ धक् ।
जुषस्व नः सख्या वेश्या च मा त्वत् क्षेत्राण्य् अरणानि गन्म ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0